पुरुषपरीक्षा ।

अन्य इत्यादिना वेदवादिमतमुपक्षिपति ।


अन्ये त्वीशसधर्माणं पुरुषं लोककारणम् ।

कल्पयन्ति दुराख्यातसिद्धान्तानुगबुद्धयः ॥ १५३ ॥

076
समस्तवस्तुप्रलयेऽप्यलुप्तज्ञानशक्तिमान् ।

ऊर्णनाभ इवांशूनां स हेतुः किल जन्मिनाम् ॥ १५४ ॥

त एवमाहुः—पुरुष एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेप्यलुप्तज्ञानाति
शयशक्तिरिति । तथा चोक्तम्—ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररो
हाणामिव प्लक्षः स हेतुः सर्वजन्मिनाम् ॥ इति । तथा पुरुष एवैतत्सर्वं यद्भूतं
यच्च भाव्यमि
ति । ईशसधर्माणम्—ईश्वरतुल्यधर्माणम्, द्वयोरपि विश्वसर्गस्थितिप्रलय
निमित्तत्वात् । एतावांस्तु विशेषः, ईश्वरव्यतिरिक्तमन्यदप्यात्मादिकं समवाय्यादिका
रणमीश्वरकारणकैरिष्यते । पुरुषवादिभिस्तु पुरुष एव कारणम्, विश्वसर्गस्थिति
प्रलयनिमित्तभावस्तु द्वयोरपि समानः । दुराख्यातसिद्धान्तानुगबुद्धय इति ।
दुराख्यातसिद्धान्तानुगा बुद्धिर्येषामिति विग्रहः । ऊर्णनाभो मर्कटकः ॥ १५३ ॥ १५४ ॥