समवायपदार्थपरीक्षा ।

समवायदूषणार्थमाह—तन्तुष्वित्यादि ।


तन्तुष्वेव पटोऽमीषु वीरणेषु कटः पुनः ।

इत्यादीहमतेर्भावात्समवायोऽवगम्यते ॥ ८२३ ॥

अयुतसिद्धानामाधार्याधारभूतानामिहबुद्धिहेतुर्यः सम्बन्धः स समवायः, स चाय
मिह तन्तुषु पट इत्यादीहबुद्धिविशेषतो द्रव्यादिभ्योऽर्थान्तरत्वेनावगम्यते । यथाहि
सत्ताद्रव्यत्वादीनां स्वाधारेष्वात्मानुरूपप्रत्ययकर्तृत्वात्स्वाश्रयादिभ्यः परस्परतश्चार्था
न्तरभावस्तथा समवायस्यापि पञ्चसु पदार्थेषु—इह तन्तुषु पटः, इह द्रव्ये गुण
कर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम्, इह गुणेषु गुणत्वम्, इह
कर्मणि कर्मत्वम्, इह द्रव्येष्वन्त्या विशेषा, इत्यादिप्रत्ययदर्शनात्पञ्चभ्यः पदार्थेभ्यो
ऽर्थान्तरत्वं गम्यते । प्रयोगः—यो येषु यदाकारविलक्षणः प्रत्ययः, स तदर्थान्तर
निबन्धनः, यथा देवदत्ते दण्डीति प्रत्ययः, तथाचायं पञ्चसु पदार्थेष्विहप्रत्यय इति
स्वभावहेतुं मन्यते ॥ ८२३ ॥