जलशुद्धि विधान ।

कतकफलनिघृष्टं वातसीपिष्टयुक्तं ।
दहनमुखविपक्वं तप्तलोहाभितप्तं ॥
दिनकरकरतप्तं चंद्रपादैर्निशीथे ।
परिकलितमनेकैश्शोधितं गालितं तत् ॥ १२ ॥
72
जलजदललवंगोशीरसच्चंदनाद्यै--।
र्हिमकरतुटिकुष्ठप्रस्फुरन्नागपुष्पैः ॥
सुरभिवकुलजातीमल्लिकापाटलीभिः ।
सलवितलवलीनीलोत्पलैश्चोचचोरैः ॥ १३ ॥
अभिनवसहकारैश्चंपकाद्यैरनेकै--।
स्सुरुचिरवरगंधैर्मृत्कपालैस्तथान्यैः ॥
असनखदिरसारैर्वासितं तोयमेत--।
च्छमयति सहसा संतापतृष्णादिदोषान् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.