72
जलजदललवंगोशीरसच्चंदनाद्यै--।
र्हिमकरतुटिकुष्ठप्रस्फुरन्नागपुष्पैः ॥
सुरभिवकुलजातीमल्लिकापाटलीभिः ।
सलवितलवलीनीलोत्पलैश्चोचचोरैः ॥ १३ ॥
अभिनवसहकारैश्चंपकाद्यैरनेकै--।
स्सुरुचिरवरगंधैर्मृत्कपालैस्तथान्यैः ॥
असनखदिरसारैर्वासितं तोयमेत--।
च्छमयति सहसा संतापतृष्णादिदोषान् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

वर्षाकाल मे भूमिस्थ, व आकाशजलके गुण ।

न भवति भुवि सर्वं स्नानपानादियोग्यं ।
विषमिव विषरूपं वार्षिकं भूतलस्थम् ॥
विविधविषमरोगानीकहेतुर्विशेषा--।
दमृतमिति पठन्त्येतत्तदाकाशतोयम् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

क्वथित जल गुण ।

क्वथितमथ च पेयं कोष्णमंभो यदैत--
द्व्यपगतमलफेनं शुद्धिमद्वा विशिष्टं ॥
श्वसनकसनमेदश्लेष्मवातामनाशं ।
ज्वरहरमपि चोक्तम् शोधनं दीपनं च ॥ १६ ॥