75

भावार्थः--The Hindi commentary was not digitized.

दुग्धगुण ।

तदपि मधुरशीतं स्निग्धमत्यंतवृष्यं ।
रुधिरपवनतृष्णापित्तमूर्च्छातिसारं ॥
श्वसनकसनशोषोन्मादजीर्णज्वरार्ति ।
भ्रममदविषमोदावर्तनिर्नाशनं ज ॥ २२ ॥
हितकरमतिबल्यं यो निरोगप्रशस्तं ।
श्रमहरमतिगर्भस्रावसंस्थापनं च ॥
निखिलहृदयरोगप्रोक्तबस्त्यामयानां ।
प्रशमनमिह गुल्मग्रंथिनिर्लोठनं च ॥ २३ ॥

धारोष्णदुग्ध गुण । श्रृतोष्णदुग्धगुण ।

अमृतमिव मनोज्ञं यच्च धारोष्णमेतत् ।
कफपवननिहंतृप्रोक्तमेतच्छ्रितोष्णम् ॥
शमयति बहुपित्तं पक्वशीतं ततोन्य--।
द्विविधविषमदोषोद्भूतरोगैकहेतुः ॥ २४ ॥
क्षीरं हितं श्रेष्ठरसायनं च ।
क्षीरं वपुर्वर्णबलावहं च ॥
क्षीरं हि चक्षुष्यमिदं नराणाम् ।
क्षीरं वयस्थापनमुत्तमं च ॥ २५ ॥

श्रृतशीतदुग्धगुण

क्षीरं हि संदीपनमद्वितीयं ।
क्षीरं हि जन्मप्रभृति प्रधानं ॥
सोष्णं हि संशोधनमादरेण ।
संधानकृत्तछ्रितशीतलं स्यात् ॥ २६ ॥