94

वृष्यामलकादि चूर्ण ।

छागक्षीरेणामलक्याः फलं वा ।
पक्वं शुष्कं चूर्णितं शर्कराढ्यम् ॥
मूलानां वाप्युच्चटागोक्षुराणां ।
वीर्यं कुर्याच्छागवीर्येण तुल्यम् ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

छागदुग्ध ।

माषक्वाथोन्मिश्रितं छागदुग्धं ।
पीत्वा रात्रौ तद्धृताक्तं गुडाढ्यम् ॥
यामे यामे सप्तसप्तैकवारं ।
स्त्रीव्यापारे याति जातप्रमोदः ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

वृष्य, भूकूष्माण्डादि चूर्ण ।

भूकूष्माण्डं चेक्षुराणां च बीजं ।
गुप्ताबीजं वा मुसल्याश्च मूलम् ॥
चूर्णीभूतं छागदुग्धेन पातुं ।
तद्वद्देयं रात्रिसंभोगकाले ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

नपुंसकत्वके कारण व चिकित्सा

मर्मच्छेदाच्छुक्रधातुक्षयाद्वा ।
मेढ्रव्याधेर्जानतः क्लैब्यमुक्तम् ॥
साध्यत्क्लैब्यं यत्क्षयाज्जातमेषु ।
प्रोक्ता योगास्तेऽत्र योज्या विधिज्ञैः ॥ ४० ॥