119
संचद्रताराबलसंयुते वा ।
दूतैर्निमित्तैश्शकुनानुरूपैः ॥ ५२ ॥
क्रियां स कुर्यात्क्रियया समेतो ।
राज्ञोपदिष्टस्तु निवेद्य राज्ञे ॥
बलाबलं व्याधिगतं समस्तं ।
स्पृष्ट्वाथ सर्वाणि तथैव दृष्ट्वा ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.

स्पर्श परीक्षा

स्पृष्ट्वोष्णशीतं कठिनं मृदुत्वं ।
सुस्निग्धरूक्षं विशदं तथान्यत् ॥
दोषेरितं वा गुरुता लघुत्वं ।
साम्यं च पश्येदपि तद्विरूपं ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रश्न परीक्षा ।

स्पृष्टवाथ देशं कुलगोत्रमग्नि--।
बलाबलं व्याधिबलं स्वशक्तिम् ।
आहारनीहारविधिं विशेषा--।
दसात्म्यसात्म्यक्रममत्र विद्यात् ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.