123

अथाष्टमः परिच्छेद ।

अथ वातरोगाधिकारः

मंगलाचरण व प्रतिज्ञा ।

अतींद्रियपदार्थसार्थनिपुणाबबोधात्मकं ।
निराकृतसमस्तदोषकृतदुर्मदाहंकृतिम् ॥
जिनेंद्रममरेंद्रमौलिमणिरश्मिमालार्चितं ।
प्रणम्य कथयाम्यहं विदितवातरोगक्रियाम् ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

वातदोष

स वात इति कथ्यते प्रकटवेदनालक्षणः ।
प्रवात हिमवृष्टिशीततररूक्षसेवाधिकः ॥
प्रदेशसकलांगको बहुविधामयैकालयो ।
मुहुर्मुहुरुदेति रात्रिकृतदेहदुःखास्पदः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

प्राणवात ।

मुखे वसति योऽनिलः प्रथित नामतः प्राणकः ।
प्रवेशयति सोऽन्नपानमखिलामिषं सर्वदा ॥
करोति कुपितस्स्वयं श्वसनकासहिक्वाधिका--।
ननेकविधतीत्रवेगकृतवेदनाव्याकुलान् ॥ ३ ॥