165

अथ ज्वराधिकार ।

ज्वरनिदान

आहारतो विविधरोगसमुद्भवाद्वा ।
कालक्रमाद्विचरणादभिघाततो वा ॥
दोषास्तथा प्रकुपिताः सकलं शरीरं ।
व्याप्य स्थिता ज्वरविकारकरा भवंति ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

ज्वरलक्षण ।

स्वेदावरोधपरितापशिरोंगमर्द--।
निश्वासेदहगुरुतातिमहोष्मता च ॥
यस्मिन्भवंत्यरुचिरप्रतिमांबुतृष्णाः ।
सोऽयं भवेज्ज्वर इति प्रतिपन्नरोगः ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

ज्वरका पूर्वरूप ।

सर्वांगरुक्क्षवथुगौरवरोगहर्षा--।
रूपाणि पूर्वमखिलज्वरंसभवेषु ॥
पित्तज्वरान्नयनरोगविदाहशोषाः ।
वाताद्विजृंभणमरोचकता कफाच्च ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

वातज्वरका लक्षण ।

हृत्पृष्ठगात्रशिरसामतिवेदनानि ।
विष्टंभरूक्षविरसत्वविजंभणानि ॥