174

ज्वरका पुनरावर्तन ।

शीताबुपानशिशिरासनभोजनादे--।
र्व्यायाममारुतगुरुप्लवनाभिघातात् ॥
शीघ्रं ज्वरः पुनरुपैति नरं यथेष्ट--।
चारित्रतो ज्वरविमुक्तमपीह तीव्रः ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

पुनरागत ज्वर का दुष्टफल ।

दावानलो दहति काष्ठमिवातिशुष्कं ।
प्रत्यागतो ज्वरविमुक्तमिह ज्वरोऽयं ॥
तस्माज्ज्वरातुर इव ज्वरमुक्तगात्रः ।
रक्ष्यो निजाचरणभोजनभेषजाद्यैः ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ अतिसाराधिकारः ।

अतिसारनिदान ।

पित्तं विदग्धमसृजा कफमारुताभ्यां ।
युक्तं मलाशयगतं शमितोदराग्निम् ॥
क्षिप्रं मलं विसृजति द्रवतामुपेतम् ।
तं व्याधिमाहुरतिसारमिति प्रवीणाः ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.

वातातिसार लक्षण

शूलान्वितो मलमपानरुजा प्रगाढं ।
यस्तोयफेनसहितं सरुजं सशद्धम् ॥