156
यष्ठ्याह्वकल्कगुडमाहिषदुग्धमिश्रं ।
पीत्वास्रपित्तमचिरेण पुमान्निहंति ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.

मधुकादि घृत

पक्वं घृतं मधुकचंदनसारिबाणां ।
क्काथेन दुग्धसदृशेन चतुर्गुणेन ॥
हंत्यस्रपित्तमचिरेण सशर्करेण ।
काकोलिकाप्रभृतिमष्टगुणान्वितेन ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

घ्राणप्रवृत्तरुधिर चिकित्सा

संतर्पणं शिरसि जीर्णघृतैर्घृतैर्वा ।
क्षीरद्रुमांबुनिचुलार्जुनतोयपक्वैः ॥
घ्राणप्रवृत्तरुधिरं शमयत्यशेषं ।
सौवीरवारिपयसा परिषेचनं वा ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

घ्राणप्रवृत्तं रक्तमें नस्यप्रयोग ।

नस्येन नाशयति शोणितमाशु सर्वं ।
दूर्वाजलामृतपयः पयसा विपक्वं ॥