150

अथ नवम परिच्छेदः

पित्तरोगाधिकारः

प्रतिज्ञा

स्तुत्वा जिनेंद्रमुपसंहृतर्सवदोषं ।
दोषक्रमादखिलरोगविनाशहेतुम् ॥
पित्तामयप्रशमनं प्रशमाधिकानां ।
वक्ष्यामहे गुरुजनानुमतोपदेशात् ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तप्रकोपमें कारण व तज्जरोग ।

कट्वम्लरूक्षलवणोष्णविदाहिमद्य--।
सेवारतस्य पुरुषस्य भवंति रोगाः ॥
पित्तोद्भवाः प्रकटमूर्छनदाहशोष--।
विस्फोटनप्रलपनातितृषाप्रकाराः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तका लक्षण व तज्जन्य रोग ।

पित्तं विदाहि कटुतिक्तरसं सुतीक्ष्णं ।
यत्र स्थितं दहति तत्र करोति रोगान् ॥
सर्वांगगं सकलदेहपरीतदाह--।
तृष्णाज्वरभ्रभमदास्रमहातिसारान् ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.