188

भावार्थः--The Hindi commentary was not digitized.

पित्तघ्न औषधियोंके समुच्चय ।

यत्स्निग्धं यच्च शीतं यदपि च मधुरं यत्कषायं सुतिक्तं ।
यत्साक्षात्पिच्छिलं यन्मृदुतरमाधिकं यद्गुरुद्रव्यमुक्तम् ॥
तत्तत्पित्तघ्नमुक्तं रसगुणविधिना सम्यगास्वाद्य सर्वं ।
भोज्याभ्यंगप्रलेपप्रचुरतरपरीषेकनस्येषु योज्यम् ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

त्वगादि चूर्ण ।

त्वक्चैला पिप्पलीका मधुरतरतुगा शर्कराचातिशुक्ला ।
याथासंख्यक्रमेण द्विगुणगुणयुता चूर्णितं सर्वमेतत् ॥
व्यामिश्रं भक्षयित्वा जयति नरवरो रक्तपित्तक्षयासृ--।
क्तृष्णाश्वासोरुहिक्काज्वरमदकसनारोचकात्यंतदाहान् ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

दोषोंके उपसंहार ।

एवं दोषत्रयाणामभिहितमखिलं संविधानस्वरूपं ।
श्लोकैःस्तौकैर्यथोक्तैरधिकृतमधिगम्यामयानप्रमेयान् ॥
तत्तत्सर्वं नियुज्य प्रशमयतु भिषग्दोषभेदानुभेद--।
व्यामिश्राधिक्ययुक्त्या तदनुगुणलसद्भेषजानां प्रयोगैः ॥ २३ ॥
33
  1. इसे व्यवहारमें सीतोपलादि चूर्णके नामसे कहते हैं ।