205

कुष्ठमें दोषोंकी प्रधानता ।

वातान्महैकं परिसर्पमेकं पित्तादतोऽम्यदवशिष्ठ्यमिह त्रिदोष्यम् ।
देहेऽखिले ताडनभेदनत्वक्-संकोचनं महति कुष्ठपरे तथैकं ॥ ६५ ॥

भावार्थः--The Hindi commentary was not digitized.

एक विचर्चि विपादिका कुष्ठलक्षण ।

कृत्स्नं शरीरं घनकृष्णवर्णं ।
तोदान्वितं समुपयत्यरुणप्रभं वा ॥
दह्याः सदा पाणितले विचर्चिः ।
पादद्वये भवति सैव विपादिकारव्या ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.

परिसर्पविसर्पणकुष्ठलक्षण ।

पित्तात्सदाहाःपिटकास्सुतीव्राः । स्रावान्वितास्सरुधिराः परिसर्पमाहुः ।
सोष्णं समंतात्परिसर्पते य--त्तीक्ष्णं विसपर्णमिति प्रवदंति तज्ज्ञाः ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.

किटिभपामाकच्छुलक्षण ।

सस्रावसुस्निग्धमतीवकृष्णं सन्मण्डलं किटिभमाहुरतिप्रगल्भाः ।
ऊष्मान्वितं शोषयुतं सतोदं पाण्योस्तले प्रबलचर्मदलं वदंति ॥ ६८ ॥
पामेति कंडूप्रबलाः सपूयतीव्रो--।
ष्मिकाः पिटिकिकाः पदयुग्मजाताः ॥
पाण्योः स्फिचोः संभवति प्रभूता ।
या सैव कच्छुरिति शास्त्रविदोपदिष्टा ॥ ६९ ॥