212

ऊर्ध्वाधःशोधन ।

संशोधयेदूर्ध्वमधश्च सम्य--ग्रक्तस्य मोक्षणमपि प्रचुरं विदध्यात् ।
दोषेऽवशिष्टेऽपि पुनर्भवंति । कुष्ठान्यतः प्रतिविधानपरो नरः स्यात् ॥ ९९ ॥

भावार्थः--The Hindi commentary was not digitized.

कुष्ठ में वमन विरेचन रक्तमोक्षणका क्रम ।

पक्षादतः पक्षत एव वम्याः । कुष्टातुरान्वरविरेचनमेव मासात् ॥
मासाच्च तेषां विदधीत रक्तं । निर्मोक्षयेदपि च षट्सु दिनेपु षट्सु ॥ १०० ॥

भावार्थः--The Hindi commentary was not digitized.

सम्यक्शिरश्शुद्धिमपीह कुर्या--। द्वैद्यस्त्रिभिस्त्रिभिरहोभिरिहाप्रमादी ॥
सर्वेषु रोगेष्वयमेव मार्ग--स्तत्साध्यसाधनविशेषविदां प्रकर्षः ॥ १०१ ॥

भावार्थः--The Hindi commentary was not digitized.

कुष्ठप्रमेहोदरदुष्टनाडी--स्थूलेषु शोफकफरोगयुतेषु मेदः--॥
प्रायेषु भैषज्यमिहातिकार्श्य--मिच्छत्सु साधु कथयामि यथाप्रयोगैः ॥ १०२ ॥

भावार्थः--The Hindi commentary was not digitized.

गोधूमकान्रेणुयवान्यवान्वा । क्षुण्णांस्तुषापहरणानतिशुद्धशुष्कान् ॥
गोमूत्रकेणापि पुनः पुनश्च । संभावितानभिनवामलपात्रभृष्टान् ॥ १०३ ॥
भल्लातकावल्युजमार्कवार्क । मुस्ताविडंगकृतर्चूणचतुर्थभागान् ॥
चूर्णीकृतानक्षपरिप्रमाणान् । संयोजितान्कटुकतिक्तकषायपिष्टान् ॥ १०४ ॥