213
गोभिस्तथाश्वैरपि भक्षितांस्तां--स्तद्वत्क्रियानतिसुसूक्ष्मतरं विचूर्ण्य ।
सालाजकर्णार्जुनशिंशपानां । सालोदकेन सहितान् प्रपिबेत्ससक्थून् ॥ १०५ ॥

भावार्थः--The Hindi commentary was not digitized.

तानेव सक्थून् कथितक्रमेण, कृत्वा त्रिजातकमहौषधचूर्णमिश्रान् ।
भल्लातकाद्यौषधसंप्रयुक्ता--न्निंबासनक्षितिपवृक्षकषाययुक्तान् ॥ १०६ ॥
सच्छर्करानामलकाम्ललुंग--वेत्राम्लदाडिमलसच्चणकाम्लयुक्तान् ।
सारांघ्रिपक्वाथ ससैंधवांस्तांस्तांस्तान्पिवेदखिलमंदविकल्प एषः ॥ १०७ ॥

भावार्थः--The Hindi commentary was not digitized.

तैरेव सक्तुप्रकरैर्विपक्वान् भक्ष्यानपूपसकलानि सपूर्णकोशान् ।
धानानुदं भानपिशष्कुलीका--स्तं भक्षयेदखिलकुष्ठमहामयार्त्तः ॥ १०८ ॥

भावार्थः--The Hindi commentary was not digitized.

दंती त्रिवृच्चित्रकदेवदारु--पूतीकसत्त्रिकटुकत्रिफलासुगंधि ॥
प्रत्येकमेवं कुडबप्रमाणं । चूर्णं भवेदमलतीक्ष्णरजोऽर्धभागम् ॥ १०९ ॥
प्रागाज्यकुंभं पुनरग्निदग्धं । जंबूकपित्थसुरसाम्रकमातुंलग--॥
पत्रैर्विपक्वं परिधौतमंत--र्गंधोदकैर्मरिचमागधिकाविचूर्णैः ॥ ११० ॥
सच्छर्करांभःपरिमिश्रितैस्तै--र्लिप्तान्तरं कुसुमवासितंरूपितांतः ॥
बाह्यं दृढं सूत्रकृतोरुबद्धम् । कृत्वोक्तभेषजविचूर्णमिह क्षिपेत्तत् ॥ १११ ॥