192

महामय वर्णनक्रम ।

महामयानामखिलां क्रियां ब्रुवे । यथाक्रमाल्लक्षणतच्चिकित्सितैः ।
असाध्यसाध्यादिकरोगसंभवप्रधानसत्कारणवारणादिभिः ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ प्रमेहाधिकारः ।

प्रमेह निदान ।

गुरुद्रवस्निग्धहिमातिभोजनं । दिवातिनिद्रालुतया श्रमालसं ॥
नरं प्रमेहो हि भविष्यतीरितं । विनिर्दिशेदाशु विशेषलक्षणैः ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रमेहका पूर्वरूप ।

स्वपाणिपादांगविदाहता तृषा । शरीरसुस्निग्धतयातिचिक्कणम् ॥
मुखातिमाधुर्यमिहातिभोजनम् । प्रमेहरूपाणि भवंति पूर्वतः ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रमेहकी संप्राप्ति.

अथ प्रवृत्ताः कफपित्तमारुतास्समेदसो बस्तिगताः प्रपाकिनः ॥
प्रमेहरोगान् जनयंन्त्यथाविल--। प्रभूतमूत्रं बहुशस्स्रुवंति ते ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रमेह विविध है ।

इह प्रमेहा विविधा स्त्रिदोषजा--स्स्वदोषभेदात् गुणमुख्यभावतः ॥
त एव सर्वे निजदुर्जया मताः । नटा इवानेकरसस्वभाविनः ॥ ९ ॥