221

असाध्य लक्षण ।

अरोचकोद्यत्परिभग्नपार्श्वं । सशोफकुक्ष्यामयपीडितांगम् ॥
विरिक्तमप्याशु निपूरंयतम् । विवर्जयेत्तं जठरामयार्तम् ॥ १४२ ॥

भावार्थः--The Hindi commentary was not digitized.

अथोदर चिकित्सा ।

बिडोग्रगंधामधुशिग्रुवल्कं । कषायकल्कं घृतमत्र पीत्वा ॥
विरेचयेत्तिल्वकर्सीपषासौ । गवांबुना चापि निरूहयेत्तम् ॥ १४३ ॥

भावार्थः--The Hindi commentary was not digitized.

वातोदर चिकित्सा ।

महोदरं तैलविलिप्तमाशु । मरुत्कृतं क्षीरदधिप्रपक्वैः ॥
सुशिग्रुमूलैस्सकरंजयुग्मै--। स्सपत्रदानैरुपनाहयेत्तम् ॥ १४४ ॥

भावार्थः--The Hindi commentary was not digitized.

सदैव संस्वेदनमप्यभीक्ष्णं । महोदरे मारुतजे विधेयम् ॥
महौषधैस्सैंधवशिग्रुमूलै । स्सुसिद्धदुग्धादिकभोजनं च ॥ १४५ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तोदर चिकित्सा ।

सपित्तदुष्टोदरिणं सुमृष्ट--। विशिष्टशीतौषधसाधुसिद्धम् ॥
घृतं प्रपाय त्रिवृता येथेष्टं । विरेचयेत्तं समशर्करेण ॥ १४६ ॥