224

भावार्थः--The Hindi commentary was not digitized.

स्नुहीपयोभावितजातपिप्पली ।--सहस्त्रमेवाशु जयेन्महोदरम् ॥
हरीतकीचूर्णचतुर्गुणं घृतं निहंति तप्तं मथितं भुविस्थितं ॥ १५७ ॥

भावार्थः--The Hindi commentary was not digitized.

नाराच घृत ।

महातरुक्षीरचतुर्गुणं गवां । पयो विपाच्यं प्रतितक्रसंधितं ॥
खजेन मंथा नवनीतमुध्घृतं । पुनर्विपक्वं पयसा महातरोः ॥ १५८ ॥
तदर्धमासं वरमासमेव वा । पिबेच्च नाराचघृतं घृतोत्तमं ॥
महामयानामिदमेव साधनं । विरेचनद्रव्यकषायसाधितम् ॥ १५९ ॥

भावार्थः--The Hindi commentary was not digitized.

महानाराच घृ ।

त्रिवृत्सदेती त्रिफला सशंखिनी । कषायभागैर्नृपवृक्षसत्फलैः ॥
महातरुक्षीस्युतैस्सचित्रकै--। विडंगचव्यक्षणदा कटुत्रिकैः ॥ १६० ॥
पचेत्सनाराचघृतं महाख्यं । महोदराष्टीलकनिष्ठकुष्ठिनाम् ।
सगुल्मिकापस्मरणोद्धतोन्मद--। प्रलापिनां श्रेष्ठविधं विरेचनम् ॥ १६१ ॥

भावार्थः--The Hindi commentary was not digitized.