226

भावार्थः--The Hindi commentary was not digitized.

यकृत्प्लीहोदर चिकित्सा ।

यकृत्प्लिहोद्भूतमहोदरे शिरां । स्वदाक्षिणे वामकरे च मध्यमे ॥
यथाक्रमात्तां व्यधयेद्विमर्दयन् । प्लिहां करेणातिदधिप्रभोजिनम् ॥ १६६ ॥

भावार्थः--The Hindi commentary was not digitized.

सुधांशुतीक्ष्णाम्बररोपमप्रभां । सुखोष्णगोक्षीरविमिश्रितां पिबेत् ॥
यकृत्प्लिहाध्मातमहोदरो नरः । क्रमात्सुखं प्राप्तुमना मनोहरम् ॥ १६७ ॥

भावार्थः--The Hindi commentary was not digitized.

यकृत्प्लिहानाशकयोग ।

सौवर्चिकाहिंगुमहौषधान्विता । पलाशभस्मसृतमिश्रितां पिबेत् ॥
निहंति सक्षारगणैर्विपाचितं । समुद्रजातं लवणं प्लिहोदरम् ॥ १६८ ॥

भावार्थः--The Hindi commentary was not digitized.

पिप्पल्यादि चूर्ण ।

सपिप्पलीसैंधवचित्रकान्वितं । यवोद्भवं साधु विचूर्णितं समम् ॥
रसेन सौभांजनकस्य मिश्रितं । लिहेद्यकृत्प्लीह्युदरोपशांतये ॥ १६९ ॥

भावार्थः--The Hindi commentary was not digitized.

षट्पलसर्पि ।

सपिप्पली नागरहस्तिपिप्पली । शटीसमुद्राग्नियवोद्भवैः शुभैः ॥
कषायकल्कैः पलषट्कसंमितै--। रिदं घृतं प्रस्थसमांशगोमयम् ॥ १७० ॥