228

भावार्थः--The Hindi commentary was not digitized.

यथा यथा दोषजलस्रुतिर्भवेत् । तथा तथा गाढतरातिबंधनम् ॥
विधाय पक्षादथवापि वामतः । समस्तदोषोदकमुत्सृजेद्बुधः ॥ १७७ ॥

भावार्थः--The Hindi commentary was not digitized.

जलोदरीको पथ्य ।

ततश्च षण्मासमिहोदरार्दितं । सुखोष्णदुग्धेन सदैव भोजयेत् ॥
क्रियासु सर्वास्वथ सर्वथैव । महोदरे क्षीरमिह प्रयोजयेत् ॥ १७८ ॥

भावार्थः--The Hindi commentary was not digitized.

दुग्धका विशेष गुण ।

क्षीरं महोदरहितं परितापशोष--। तृष्णास्रपित्तपवनामयनाशहेतुम् ॥
वृष्यं बलप्रजननं परिशोधनं च । संधानकृत्तदनुरूपगुणौषधाढ्यम् ॥ १७९ ॥

भावार्थः--The Hindi commentary was not digitized.

अंतिम कथन ।

इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभवभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ १८० ॥

भावार्थः--The Hindi commentary was not digitized.