235
तच्च वातहरभेषजकल्क--। क्वाथदुग्धदधिभागविपक्कम् ॥
वातरोगमणुतैलमशेषं । हंति शांतिरिव कर्मकलंकम् ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

सहस्रविपाक तैल ।

सर्ववातहरवृक्षविशेषै--। श्शोषितैरवनिमाशु विदग्धाम् ॥
तैर्विपक्ववरतैलघटैर्नि--। र्वाप्य नक्तमुषितां ह्यपरेद्युः ॥ १९ ॥
स्नेहभावितसमस्तमृदं निः--। क्वाथ्य पूर्ववदिहोत्थिततैलम् ।
आम्लदुग्धदधिवातहरक्वा--। थौषधैरीप ससहस्रगुणांशैः ॥ २० ॥
सर्वगंधपरिवापविपक्वं । पूजया सततमेव महत्या ॥
पूजितं रजतकांचनकुंभ--। स्थापितं वरसहस्रविपाकम् ॥ २१ ॥
राजराजसदृशोंऽतिधनाढ्यः । श्रीमतां समुचितं भुवि साक्षात् ॥
तैलमेतदुपयुज्य मनुष्यो । नाशयेदखिलवातविकारान् ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

पत्रलवण ।

नक्तमालबृहतीद्वयपूति--काग्निकेक्षुरकमुष्कपुनर्नै--॥
रण्डपत्रगणमत्र गृहीत्वा । क्षुण्णमंबुलवणेन समानम् ॥ २३ ॥