279

भावार्थः--The Hindi commentary was not digitized.

मूत्रजवृद्धिलक्षण ।

स गच्छतः क्षुभ्यति वारिपूरिता--। दृतिर्यथा मूत्रनिरोधतस्तथा ॥
महातिकृच्छाधिकवेदनायुतो । मृदुर्नृणां मूत्रविवृद्धिरुच्यते ॥ ७७ ॥

भावार्थः--The Hindi commentary was not digitized.

अंत्रज वृद्धिलक्षण ।

यदांत्रमंतर्गतवायुपीडितं । त्वचं समुन्नम्य विधूय वंक्षणम् ॥
प्रविश्य कोशं कुरुतेऽतिवेदनाम् । तदांत्रवृद्धिं प्रतिपादयेद्भिषक् ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्व वृद्धिमें वर्जनीय कार्य ।

तथोक्तवृद्धिष्वखिलासु बुद्धिमान् । विवर्जयेद्वेगनिरोधवाहनम् ॥
व्यवाययुद्धाद्यभिघातहेतुकं । ततश्च तासां विदधीत तत्क्रियाम् ॥ ७९ ॥

भावार्थः--The Hindi commentary was not digitized.

वातवृद्धि चिकित्सा ।

अथानिलोत्थाधिकवृद्धिमातुरं । विरेचयेत्स्निग्धतमं प्रपाययेत् ॥
सदुग्धमेरण्डजतैलमेव वा । निरूहयेद्वाप्यनुवासयेद्भृशम् ॥ ८० ॥