262

भावार्थः--The Hindi commentary was not digitized.

शर्कराशूल ।

सशर्कराशूलमितीह शर्करा । करोति साक्षात्कटिशर्करोपमा ॥
पतंति तास्तीव्रतरा मुहुर्मुहुः । स्वभेदिसद्भेषजसंप्रयोगतः ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

अथाश्मर्याधिकारः ।

अश्मरीभेद ।

कफःप्रधानाः सकलाश्मरीगणाः । चतुः प्रकाराः गुणमुख्यभेदतः ।
कफादिपित्तानिलशुक्रसंभवाः । क्रमेण तासामत उच्यते विधिः ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

कफाश्मरीलक्षण ।

अथाश्मरीमात्मसभुद्भवां कफः । करोति गुर्वीं महतीं प्रपाण्डुराम् ॥
तया च मूत्रागममार्गरोधतो । गुरुर्भवेद्बास्तिरिवेह भिद्यते ॥ ७ ॥