305

नाडीव्रण निदान व चिकित्सा.

प्रपूर्णपूयः श्वयथुः समाश्रयो ।
विदार्य नाडीं जनयत्युपेक्षितम् ॥
स्वदोषभेदादवगम्य तामपि ।
प्रसादयेच्छोधनतैलवर्तिभिः ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

मुखकांतिकारक घृत.

काश्मीरचन्दनकुचंदनलोध्रकुष्ठ--।
लाक्षाशिलालरजनीद्वयपद्ममध्यं ॥
मंजिष्ठिकाकनकगैरिकया च सार्धं ।
काकोलिकाप्रभृति मृष्टगुणं सुपिष्टं ॥ ६५ ॥
तस्माच्चतुर्गुणघृतेन सुगंधिनाति--।
यत्नाद्धृतद्विगुणदुग्धयुतं विपाच्य ॥
व्यालेपयेन्मुखमनेन घृतेन तज्जान् ।
रोगान्व्यपोह्य कुरुते शशिसन्निभं तम् ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.