285

भावार्थः--The Hindi commentary was not digitized.

यदुचितमभिघाते जातशोफे विधानं ।
तदपि च कुरुते यत्नेन वंशाख्यशोफे ॥
व्रणविहितसमस्तैश्शोधनै रोपणैर--।
प्युपनहनविशेषैस्साधयेत्तत्कृतं च ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ शूकदोषाधिकारः ।

शूकरोग निदान व चिकित्सा.

परुषविषमपत्रोद्धट्टनं मेढ्रवृध्यैः ।
करमथनविशेषादल्पयोनिप्रसंगात् ॥
अधिकृतबहुशूकाख्यामयाः स्युस्ततस्तान् ॥
घृतबहुपरिषेकैः स्वेदनैः स्वेदयेच्च ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

तिलमधुकादि कल्क ।

तिलमधुककलायाश्वत्थमुद्गैः सुपिष्टैः ।
घृतगुडपयसाव्याभिश्रितैः शीतवर्गैः ॥
कुपितरुधिरशांत्यै संप्रपिष्य प्रयत्नात् ।
विदितसकलदोषप्रक्रमेणारभेत ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.