292

भावार्थः--The Hindi commentary was not digitized.

विद्रधिका असाध्य साध्य लक्षण ।

श्वसनकसनहिक्कारोचकाध्मानशूल--।
ज्वरयुतपरितापाद्बंधनिष्पंदवातात् ॥
उपरिनिसृतपूये विद्रधौ नैव जीवेत् ।
भवति सुखकरोऽयं चाप्यधःसृष्टपूयः ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.

विद्रधि चिकित्सा ।

प्रथममखिलशोफेषूष्णवर्गोपनाहः ।
प्रवर इति जिनेंद्रैः कर्मविद्भिः प्रणीतः ॥
प्रशमनमधिगच्छत्यामसंज्ञाविधिज्ञ--।
स्त्वरिततरविपक्वं स्याद्विपक्वामभेदम् ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

आमविदग्धविपक्व लक्षण.

कठिनतरविशेषः स्यादिहामाख्यशोफो ।
ज्वरबहुपरितापोष्माधिकः स्याद्विदग्धः ॥
विगतविषमदुःखःस्याद्विवर्णो विपक्व--।
स्तमिह निशितशस्त्रच्छेदनैः शोधयेत्तम् ॥ २९ ॥