283

अथ चतुर्दशपरिच्छेदः ।

अथ उपदंशाधिकारः ।

मंगलाचरण व प्रतिज्ञा ।

जिनमनघमनंतज्ञाननेत्राभिरामं ।
त्रिभुवनसुखसंपन्मूर्तिमत्यादरेण ॥
प्रतिदिनमतिभक्त्याऽनम्य वक्षाम्युदारं ।
ध्वजगतमुपदंशख्यातशूकाभिधानम् ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

उपदंश चिकित्सा ।

वृषणविविधवृद्धिप्रोक्तदोषक्रमेण ॥
प्रकटतरचिकित्सां मेहनोत्पन्नशोफे ॥
वितरतु विधियुक्तां चोपदंशाभिधाने ।
निखिलविषमशोफेष्वेष एव प्रयोगः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

दो प्रकारका शोथ ।

स भवति खलु शोफो द्विप्रकारो नराणा--।
मवयवनियतोऽन्यः सर्वदेहोद्भवश्च ॥