298

पाषाणगर्दभ, जालकाली लक्षण.

हनुगतवरसंधौ तद्वदेवातिशोफम् ।
परुषविषमपाषणाधिकं गर्दभाख्यम् ॥
तदुपमगतपाकं जालकालं विसर्प--।
प्रतिममधिकपित्तोद्भूतदाहज्वराढ्यम् ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

पनसिका लक्षण.

श्रवणपरिसमंतादुन्नतामुग्रशोफां ।
कफपवननिमित्तां वेदनोद्भूतदुःखां ॥
प्रबलपनसिकाख्यां साधयेदौषधैस्तां ।
प्रतिपदविहितैस्तैः आमपक्वक्रमेण ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

इरिवेल्लिका लक्षण.

शिरसि समुपजातामुन्नतां वृत्तशोफां ।
कुपितसकलदोषोद्भूतलिंगाधिवासाम् ॥
ज्वरयुतपरितापां तां विदित्वेरिवल्ली--।
मुपशमनविशैषैः साधयेद्बालकानाम् ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.