321
क्रियामिमां दंतगलामयेष्विह । प्रयोजयेद्दोषविशेषभेषजैः ।
चलंतमुद्यच्छुषिराख्यदंतकं । समुद्धरेन्मूलमिहाग्निना दहेत् ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.

दंतहर्ष चिकित्सा.

स्वदंतहर्षेपि विधिंर्विधीयते । महानिलघ्नाधिकभेषजान्वितः ॥
हितं च सुस्निग्धसुखोष्णभोजनं । घृतस्य भुक्तोपरि पानमिष्यते ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.

दंतशर्करा कापालिका चिकित्सा.

स दंतमूलक्षतमावहन् भृशं । समुद्धरेद्दंतगतां च शर्कराम् ॥
कपालिकां कृच्छ्रतरां तथा हरेत् । सुखोष्णतैलैः कवलग्रहैस्तयोः ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

हनुमोक्ष-चिकित्सा.

ततो निशायुक्तकटुत्रिकान्वितैः । ससिंधुतैलैः प्रतिसारयेद्भिषक् ॥
हनुप्रमोक्षार्दितवद्विधीयता--। मितोऽत्र जिह्वामयपंचके तथा ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

जिह्वागत पंचविधरोग.

त्रिभिस्तु दोषैरिह कंटकाः स्मृताः । स्ववेदनाविष्कृतरूपलक्षणाः ॥
ततो हरिद्रालवणैः कटुत्रिकै--। र्विघर्षयेत्तैलयुतैर्मरुत्कृतान् ॥ ६० ॥