333

पित्तज सर्वसर लक्षण ।

स दाहपाकज्वरसंयुतैर्मुखं । सरक्तविस्फोटगणैश्चितं यदा ॥
स पित्तजः सर्वसरोऽत्र वक्त्रज--स्तमाशु पित्तघ्नवरौषधैर्जयेत् ॥ १०६ ॥

भावार्थः--The Hindi commentary was not digitized.

कफज सर्वसर लक्षण ।

खरैस्सुशीतैरतिकण्डुरैर्घनै--। रवेदनैः स्फोटगणैः सुपिच्छिलैः ॥
चितं मुखं सर्वसरो बलासजः । कफापहैस्तं समुपाचरेद्भिषक् ॥ १०७ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्व सर्वसररोग चिकित्सा ।

सपित्तरक्तानखिलान्मुखामयान् । जयेद्विरेकैः रुधिरप्रमोक्षणैः ॥
मरुत्कफोत्थान्वमनैः सुधूमकै--श्शिरोविरेकैः कवैलः प्रसारणैः ॥ १०८ ॥

भावार्थः--The Hindi commentary was not digitized.

मधूकादि धूपन वर्ति ।

मधूकराजादननिंबसेंगुदी । पलाशसैरण्डकमज्जमिश्रितैः ॥
सकुष्ठमांसीसुरदारुगुग्गुल । प्रतीतसर्ज्जार्द्रकसारिवादिभिः ॥ १०९ ॥
सुपिष्टकल्कैः प्रविलिप्तपट्टकं । विवेष्ट्य वर्ति वरवृत्तगर्भिणीम् ॥
विशोषितां प्रज्वलिताग्रधूमिकां विधाय वक्त्रं सततं प्रधूपयेत् ॥ ११० ॥
44
  1. सद्रैव शुभै इति पाठांतरं ।