337

भावार्थः--The Hindi commentary was not digitized.

नेत्ररोगं की संख्या.

ततस्तु तद्रक्षणमेव शोभनं । यथार्थनेत्रेंद्रियबाधकाशुभाः ॥
षडुत्तराः सप्ततिरेव संख्यया । दुरामयास्तान् समुपाचरेद्भिषक् ॥ १२४ ॥

भावार्थः--The Hindi commentary was not digitized.

नेत्ररोगके कारण.

जलप्रवेशादतितप्तदेहिनः । स्थिरासनात् संक्रमणाच्च घमर्तः ॥
व्यवायनिद्राक्षतिसूक्ष्मदर्शना--। द्रजो विधूमश्रमबाष्पनिग्रहात् ॥ १२५ ॥
शिरोतिरूक्षादतिरूक्षभोजनात् । पुरीषमूत्रानिलवेगधारणात् ॥
पलांडुराजीलशुनार्द्रभक्षणा--। द्भवंति नेत्रे विविधाः स्वदोषजाः ॥ १२६ ॥

भावार्थः--The Hindi commentary was not digitized.

नेत्र रोगोंके आश्रय ।

अतस्तु तेषां त्रिविधास्तथाश्रयाः । समण्डलान्यत्र च संधयोऽपरे ॥
भवंति नेत्रे पटलानि तान्यलं । पृथक् पृथक् पंच षडेव षट्पुनः ॥ १२७ ॥

भावार्थः--The Hindi commentary was not digitized.

45 46
  1. चंक्रमणाच्च इति पाठांतरं ।

  2. बिन्दुघट्टनात् इति पाठांतरं ।