349

पूयालस, कफोपनाह लक्षण.

सतोदभेदो बहुपूयसंस्रवी । भवेत्स पूयालस इत्यथापरः ॥
स्वदृष्टिसंधौ न विपक्ववान् महा--। नुदीरितो ग्रंथिरिहाल्पवेदनः ॥ १७३ ॥

कफजस्राव लक्षण.

कफोपनाहो भवतीह संज्ञया । स एव पक्वो बहुपूयसंस्त्रवात् ॥
सपूयसंस्त्रावविशेषनामकः । सितं विशुष्कं बहुलातिपिच्छिलम् ॥ १७४ ॥

पित्तजस्राव व रक्तजस्रावलक्षण.

स्रवेत्सदा स्रावमतो वलासजो । निशाद्रवाभं स्रवतीह पित्तजः ।
सशोणितः शोणितसंभवो यतश्चतुर्विधाः स्रावगपदा उदीरिताः ॥ १७५ ॥

कृमिग्रंथि लक्षण.

स्ववर्त्मजाताः क्रिमयोऽथ शुक्लजाः । प्रकुर्वते ग्रंथिमतीव कण्डुरम् ॥
स्वसंधिदेशे निजनामलक्षणैः । समस्तसंधिप्रभवाः प्रकीर्तिताः ॥ १७६ ॥

भावार्थः--The Hindi commentary was not digitized.

वर्त्मगतरोगवर्णनप्रतिज्ञा.

अतःपरं वर्त्मगतामयान्ब्रुवे । स्वदोषभेदाकृतिनामसंख्यया ॥
विशेषतस्तैः सह साध्यसाधन--। प्रधानसिद्धांतसमुद्धतौषधैः ॥ १७७ ॥