356

शिराजाल व शिराजप्रिडिका लक्षण.

महत्सरक्तं कठिनं सिराततं । शिरादिजालं भवतीह शुक्लजम् ॥
शिरावृता या पिटका शिराश्रिता । सिता सिरोक्तान् सनरान् सिरोद्भवान् ॥ २०३ ॥

भावार्थः--The Hindi commentary was not digitized.

मृदुस्वकोशप्रतिमोरुबिंबिका--फलोपमो वा निजशुक्लभागजः ॥
भवेद्बलासग्रथितो दशैकजः । अतः परं कृष्णगतामयान् ब्रुवे ॥ २०४ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ कृष्णमण्डलगतरोगाधिकारः ।

अव्रण, व सव्रणशुक्ललक्षण.

अपव्रणं यच्च सितं समं तनुं । सुसाध्यशुक्लं नयनस्य कृष्णजम् ।
तदेव मग्नं परितस्स्रवद्द्रवं । न साध्यमेतद्विदितं तु सव्रणम् ॥ २०५ ॥

भावार्थः--The Hindi commentary was not digitized.

अक्षिपाकात्यय लक्षण.

यदत्र दोषेण सितेन सर्वतो--। ऽसितं तु संछाद्यत एव मण्डलम् ॥
तमक्षिपाकात्ययमक्षयामयं । त्रिदोषजं दोषविशेषवित्त्यजेत् ॥ २०६ ॥

भावार्थः--The Hindi commentary was not digitized.