359

चतुर्थपटलगतदोषलक्षण.

यदा चतुर्थं पटलं गतस्सदा । रुणद्धि दृष्टिं तिमिराख्यदोषतः ॥
स सर्वतः स्यादिह लिंगनाश इ--। त्यथापरः षड्विधलक्षणान्वितः ॥ २१५ ॥

भावार्थः--The Hindi commentary was not digitized.

लिंगनाश का नामांतर व वातजलिमनाशलक्षण.

स लिंगनाशो भवतीह नीलिका । विशेषकाचाख्य इति प्रकीर्तितः ॥
समस्तरूपाण्यरुणानि वातजा--द्भवंति रूक्षाण्यनिशं स पश्यति ॥ २१६ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तकफरक्तज लिंगनाश लक्षण.

शतथदेंद्रायुधवन्हिभास्कर--। प्रकाशखद्योतगणान्स पित्तजात् ॥
सितानि रूपाणि कफाच्च शोणिता--। दतीव रक्तानि तमांसि पश्यति ॥ २१७ ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपातिकलिंगनाशलक्षण व वातजं वर्ण.

विचित्ररूपाण्यति विप्लुतान्यलं । प्रपश्यतीत्थं निजसन्निपातजात् ।
स एव काचः पवनात्मकोऽरुणो । भवेत् स्थिरो दृष्टिगतारुणप्रभः ॥ २१८ ॥

भावार्थः--The Hindi commentary was not digitized.