360

पित्त कफज वर्ण.

तथैव पित्तादतिनीलनामकं । भवेत् परिम्लायि च पिंगलात्मकं ॥
कफात्सितं स्यात् इह दृष्टिमण्डलं । विमृद्यमाने विलयं प्रयात्यलं ॥ २१९ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तज सन्निपातजवर्ण.

प्रवालसंकाशमथापि वासितं । भवेच्च रक्तादिह दृष्टिमण्डलं ।
विचित्रवर्णं परितस्त्रिदोषजं । प्रकीर्तिताः षड्विधलिंगनाशकाः ॥ २२० ॥

अर्थ--The Hindi commentary was not digitized.

विदग्धदृष्टिनामक षड्विध रोग व पित्तविदग्ध लक्षण.

स्वदृष्टिरोगानथ षड्ब्रवीम्यहं । प्रदुष्टपित्तेन कलंकितान्स्वयं ।
सुपीतलं पित्तविदग्धदृष्टिरप्यतीव पीतानखिलान्प्रपश्यति ॥ २२१ ॥