365
याप्यस्स्या{??}रपि तज्ज एव काचः ।
स्यंदाख्योप्यधियुतमन्थनामरोगः ॥ २३७ ॥
क्लिष्टोऽयं निगदितवर्त्म लोहितार्म ।
प्रख्यातं क्षतवियुतशुक्लमर्जुनाख्यं ॥
पर्वण्यंजनकृतनामिका शिराणां ।
जालं यत्पुनरपि हर्षकोत्पातौ ॥ २३८ ॥
साध्यास्ते रुधिरकृतामयादशान्येऽ ।
प्येकश्च प्रकटितलक्षणाः प्रणीताः ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपातज असाध्य व याप्य रोग.

आंध्यं यन्नकुलगतं च सर्वजेषु ।
स्रावोऽपि प्रकटितपूयसंप्रयुक्तः ॥ २३९ ॥
पाकोऽयं नयनगतोऽलजी स्वनाम्ना ।
चत्वारः परिगदिताश्च वर्जनीयाः ॥
काचश्च प्रकटितपक्ष्मजस्तु कोपो ।
वर्त्मस्थो द्वितयमपीह यापनीयम् ॥ २४० ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपातज साध्यरोग.

वर्त्मावप्रबलबिबंधकश्च, वर्त्मा--।
प्रक्लिन्नं यदपि च ? पिल्लिकाक्षि साक्षात् ॥
या प्रोक्ता निजपिडिका सिरासु जाता ।
स्नाय्वर्माप्यधियुतमांसकार्म सम्यक् ॥ २४१ ॥
53
  1. कृष्ण इति पाठांतरं ।