लिंगनाशमें त्रिफला चूर्ण.

चूर्णं यत्त्रिफलाकृतं तिलजसंमिश्रं च वातोद्भबे ।
श्लेष्मोत्थे तिमिरे घृतेन सहितं पित्तात्मके रक्तजे ॥
खण्डेनातिसितेन पिण्डितमिदं संभक्षितं पण्डितै--।
र्दृष्टिं तुष्टिमतीव पुष्टिमधिकं वैशिष्ट्यमप्यावहेत् ॥ २८४ ॥

भावार्थः--The Hindi commentary was not digitized.

379
पक्वैश्चामलकीफलैरपि शतावर्याश्च मूलैश्शुभैः ।
सम्यक्पायसमेव गव्यघृतसंयुक्तं सदा सेवितं ॥
साक्षी पक्षिपतेरिवाक्षियुगले दृष्टिं करोत्यायताम् ।
वृष्यायुष्ककरं फलत्रयरसः शीतांबुपानोत्तमम् ॥ २८५ ॥

भावार्थः--The Hindi commentary was not digitized.