404
मूर्ध्नि व्याप्ताः पवनकफपित्तासृजस्ते पृथग्वा ।
क्रुद्वा कुर्युर्निजगुणयुतान् तान् प्रतिश्यायरोगान् ॥ ८७ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिश्याय का पूर्वरूप.

स्यादत्यंतं क्षवथुरखिलांगप्रमर्दो गुरुत्वं ।
मूर्ध्निस्तम्भः सततमनिमित्तैस्तथा रोमहर्षः ॥
तृष्णाद्यास्ते कतिपयमहोपद्रवास्संभवंति ।
प्राग्रूपाणि प्रभवति सतीह प्रतिश्यायरोगे ॥ ८८ ॥

भावार्थः--The Hindi commentary was not digitized.

वातज प्रतिश्यायके लक्षण.

नासास्वच्छस्रुतिपिहितविरूपातिनद्धेव कण्ठे ॥
शोषस्तालुन्यधरपुटयोश्शंखयोश्चातितोदः ।
निद्राभंगः क्षवथुरतिकष्टस्वरातिप्रभेदो ॥
वातोभ्दूते निजगुणगणः स्यात्प्रतिश्यायरोगे ॥ ८९ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तज प्रतिश्याय के लक्षण.

पीतस्सोष्णस्स्रवति सहसा स्रावदुष्टोत्तमांगाद् ।
घ्राणाधूमज्वलनसदृशो याति निश्वासवर्गः ॥