407

भावार्थः--The Hindi commentary was not digitized.

वात, पित्त, कफ, व रक्तज प्रतिश्यायचिकित्सा.

वाते पंचप्रकटलवणैर्युक्तसर्पिः प्रशस्तं ।
पित्ते तिक्तामलकमधुरैः पक्वतमेतच्च रक्ते ।
श्लेष्मण्युष्णैरतिकटुकतिक्तातिरूक्षैः कषायैः ॥
पेयं विद्वद्विहितविधिना तत्प्रतिश्यायशांत्यै ॥ ९७ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिश्यायपाचनके प्रयोग.

पाकं साक्षाद्व्रजति सहसा सोष्णशुंठीजलेन ।
क्षीरेणापि प्रवरमधुशिग्रुप्रयुक्तार्द्रकेण ॥
तीक्ष्णैर्भक्तैः कटुकलकलायाढकीमुद्गयूषैः ।
कौलत्थाम्लैर्मरिचसहितैस्तत्प्रतिश्यायरोगः ॥ ९८ ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपातज व दुष्ट प्रतिश्यायचिकित्सा.

सोष्णक्षारैः कटुगणविपक्वैर्घृतैः वावपीडै--।
स्तीक्ष्णैर्नस्यैरहिमपरिषेकावगाहावलेहैः ॥
गण्डूषैर्वा कवलबहुधूमप्रयोगानुलेपैः ।
सद्यः शाम्यत्यखिलकृतदुष्टप्रतिश्यायरोगः ॥ ९९ ॥