432

अथ पांडुरोगाधिकारः

पांडुरोग निदान.

अथ च पाण्डुमदांश्चतुरो ब्रुवे पृथगशेषविशेषितदोषजान् ।
विदितपांण्डुगुणप्रविभावितान् अपि विभिन्नगुणान्गुणमुख्यतः ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.

वातज पांडुरोग लक्षण.

असितमूत्रसिराननलोचनं । मलनखान्यसितानि च यस्य वै ॥
मरुदुपद्रवपीडितमातुरं । मरुदुदीरितपाण्डुगदं वदेत् ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तज पांडुरोग लक्षण.

निखिलपीतयुतं निजपित्तजं धवलवर्णमपीह कफात्मजम् ।
सकलवर्णगुणत्रितयोत्थितं प्रतिवदेदथ कामलक्षणम् ॥ ९३ ॥

भावार्थः--The Hindi commentary was not digitized.

कामलानिदान.

प्रशमितज्वरदाहनरोऽचिरादधिकमम्लमपथ्यमिहाचरेत् ॥
कुपितपित्तमतोस्य च कामला मधिकशोफयुतां कुरुते सितां ॥ ९४ ॥
62
  1. कामिलयान्यथा इति पाठातरं ।