437

सन्निपातज, शोकज उन्मादलक्षण.

स्यात्सन्निपातजनितस्त्रिविधैः त्रिदोष--।
लिंगैः समीक्षितगुणो भवतीह कृच्छ्रः ॥
अर्थक्षयादधिकबंधुवियोगतो वा ।
कामाद्भयादपि तथा मनसो विकारः ॥ १०७ ॥

भावार्थः--The Hindi commentary was not digitized.

उन्मादचिकित्सा.

उन्मादबाधिततनुं पुरुषं सदोषैः ।
स्निग्धं तथोभयविभागविशुद्धदेहं ॥
तीक्ष्णावपीडनशतैः शिरसो विरेकैः ।
धूपैस्सपूतिभिरतः समुपक्रमेत ॥ १०८ ॥

भावार्थः--The Hindi commentary was not digitized.

नस्य व त्रासन.

नस्यानुलेपनमपीह हितं प्रयोज्यं ।
तैलेन तीक्ष्णतरसर्षपजेन युक्तम् ॥
सुत्रासयेद्विविधनागतृणाग्नितोयै--।
श्चांरैर्गजैरपि सुशिक्षितसर्वकार्यैः ॥ १०९ ॥

भावार्थः--The Hindi commentary was not digitized.