465

गरुडग्रहगृहीत लक्षण.

पक्षिगंधसहितो बहुव्रणः स्फोटनिष्ठुरविपाकदाहवान् ।
स्रस्तगात्रशिशुरेष सर्वतः संबिभेति गरुडग्रहार्तितः ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.

गरुडग्रहघ्न, स्नान, तैल, लेप.

आम्रनिंबकदलीकपित्थजंबूद्रुमक्वथितशीतवारिभिः ।
स्नापयेदथ च तद्विपक्वंतैलप्रलेपनमपि प्रशस्यते ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.

गरुडग्रहघ्न घृतधूपनादि.

यद्व्रणेषु कथितं चिकित्सितं यद्घृतं पुरुषनामकग्रहे ।
यच्च रक्षणसुधूपनादिकं तद्धितं शकुनिपीडिते शिशौ ॥ ८४ ॥

भावार्थः--The Hindi commentary was not digitized.

गंधर्व रेवती ग्रहगृहीत लक्षण ।

पाण्डुरोगमतिलोहिताननं पीतमूत्रमलमुत्कटज्वरम् ।
श्यामदेहमथवान्यरोगिणं घ्राणकर्णमसकृत्प्रमाथिनम् ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.