443

+ अथाष्टदशः परिच्छेदः

मंगलाचरण.

मम मनसि जिनेंद्रं श्रीपदांभोजयुग्मं ।
भवतु विभवभव्याशेषमत्तालिवृंदै--॥
रनुदिनमनुरक्तैस्सेव्यमानं प्रतीत--।
त्रिभुवनसुखसंपत्प्राप्तिहेतुर्नराणाम् ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ राजयक्ष्माधिकारः ।

राजयक्ष्मवर्णनप्रतिज्ञा.

अखिलतनुगताशेषामयैकाधिवासं ।
प्रबलविषमशोषव्याधितत्वं ब्रवीमि ॥
निजगुणरचितैस्तैर्दोषभेदानुभेदैः ।
प्रथमतरसुरूपैरात्मरूपैस्सुरिष्टैः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

63
  1. गंभीरामलमूलसंघतिलके श्रीकुंदकुंदान्वये ।
    गच्छे श्रीपनसोगवल्यनुगते देशीगणे पुस्तके ॥
    विख्यातागमचक्षुषोल्ललितकीर्त्याचार्यवर्यस्य ते ।
    कुर्वेहं परिचर्यकं चरणयोस्सिहांसनश्रीजुषो ॥
    इति क पुस्तके अधिकः पाठोपलभ्यते ।