आयुर्वेदशास्त्रका परम्परागमनक्रम

दिव्यध्वनिप्रकटितं परमार्थजातं
साक्षात्तथा गणधरोऽधिजगे समस्तम्
पश्चात् गणाधिपनिरूपितवाक्प्रपंच--
मष्टार्धनिर्मलधियो मुनयोऽधिजग्मुः ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

एवं जिनांतरनिबंधनसिद्धमार्गा--
दायातमायतमनाकुलमर्थगाढम्
स्वायंभुवं सकलमेव सनातनं तत्--
साक्षाच्छ्रुतं श्रुतदलैःश्रुतकेवलिभ्यः ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.