4

आयुर्वेदशास्त्रका परम्परागमनक्रम

दिव्यध्वनिप्रकटितं परमार्थजातं
साक्षात्तथा गणधरोऽधिजगे समस्तम्
पश्चात् गणाधिपनिरूपितवाक्प्रपंच--
मष्टार्धनिर्मलधियो मुनयोऽधिजग्मुः ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

एवं जिनांतरनिबंधनसिद्धमार्गा--
दायातमायतमनाकुलमर्थगाढम्
स्वायंभुवं सकलमेव सनातनं तत्--
साक्षाच्छ्रुतं श्रुतदलैःश्रुतकेवलिभ्यः ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

ग्रंथकारकी प्रतिज्ञा ।

प्रोद्यज्जिनप्रवचनामृतसागरान्तः--
प्रोद्यत्तरंगनिसृताल्पसुशीकरं वा
वक्ष्यामहे सकललोकहितैकधाम
कल्याणकारकमिति प्रथितार्थयुक्तम् ॥ ११ ॥