12

रिष्ट सूचकदूतलक्षण ।

हीनाधिकातिकृशकृष्णविरूक्षितांगः
सव्याधितः स्वयमथायुधदण्डहस्तः
संध्यासु साश्रुनयनो भयवेपमानो
दूतो भवेदतितरां यमदूतकल्पः ॥ ३३ ॥
अश्वैः खरै रथवरैः करभैः रथाम्यैः
प्राप्तः सदा भवति दूतगणोऽतिनिंद्यः
यो वा छिनत्ति तृणमग्रगतो भिनत्ति
काष्ठानि लोष्ठमथवेष्ठकमिष्टकं वा ॥ ३४ ॥
एवंविधं सपदि दूतगतं च रिष्टं
दृष्टवातुरस्य मरणैकनिमित्तहेतुम्
तं वर्जयेदिह भिषग्विदितार्थसूत्रः

शुभदूतलक्षण ।

सौम्यः शुभाय शुचिवस्त्रयुतः स्वजातिः ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

अशुभशकुन ।

उद्वेगसंक्षवथुलग्ननिरोधशद्ब--
प्रस्पर्द्धिसंस्खलितरोषमहोपतापाः
ग्रामाभिघातकलहाग्निसमुद्भवाद्याः
वैद्यैः प्रयाणसमये खलु वर्जनीयाः ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.