शुभशकुन

शांतासु दिक्षु शकुनाः पटहोरुभेरी
शंखांबुदप्रवरवंशमृदंगनादाः
छत्रध्वजा नृपसुतः सितवस्त्रकन्याः
गीतानुकूलमृदुसौरभगंधवाहाः ॥ ३८ ॥
श्वेताक्षताम्बुरुहकुक्कुटनीलकंठा
लीलाविलासललिता वनिता गजेंद्राः
स्वच्छांबुपूरितघटा वृषवाजिनश्च
प्रस्थानपारसमयेऽभिमुखाः प्रशस्ताः ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

एवं महाशकुनवर्गनिरूपितश्रीः
प्राप्यातुरं प्रवरलक्षणलक्षितांगम्
दृष्ट्वा विचार्य परमायुरपीह वैद्यो
यातं कियत्कियदनागतमेव पश्येत् ॥ ४० ॥
14

भावार्थः--The Hindi commentary was not digitized.