2

भगवान् आदिनाथसे प्रार्थना ।

तं तीर्थनाथमधिगम्य विनम्य मूर्ध्ना
सत्प्रातिहार्यविभवादिपरीतमूर्तिम्
सप्रश्रयं त्रिकरणीरुकृतप्रणामाः
पप्रच्छुरित्थमखिलं भरतेश्वराद्याः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

प्राग्भोंगभूमिषु जना जनितातिरागाः
कल्पद्रुमार्पितसमस्तमहोपभोगाः
दिव्यं सुखं समनुभूय मनुष्यभावे
स्वर्गं ययुः पुनरपीष्टसुखं सुपुण्याः ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

अत्रोपपाद{??}त्तमदेहिवर्गाः
पुण्याधिकास्त्वनपवर्त्यमहायुषस्ते
अन्येऽपवर्त्यपरमायुष एव लोके
तेषां महद्भयमभूदिह दोषकोपात् ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

देव ! त्वमेव शरणं शरणागताना--
मसाकिमाकुलधियामिह कर्मभूमौ
शीतांतितापहिमवृष्टिनिपीडितानां
कालक्रमात्कदशनाशनतत्पराणाम् ॥ ५ ॥