510

रक्तमोक्षण का फल.

दुष्टे रक्ते निहृते तद्विषाख्यं शीघ्रं सर्वं निर्विषत्वं प्रयाति ।
पश्चाच्छीतांभोभिषिक्तो विषार्तो दध्याज्यक्षीरैः पिबेदौषधानि ॥ १०५ ॥

भावार्थः--The Hindi commentary was not digitized.

दर्वीकर सर्पोंके सप्तवेगों में पृथक् २ चिकित्सा.

शस्त्रं प्राक् दर्वीकराणां तु वेगे रक्तस्रावस्तद्वितीयेऽगदानाम् ।
पानं नस्यं तत्तृतीयेंऽजनं स्यात् सम्यग्वाम्यस्तच्चतुर्थेऽगदोपि ॥ १०६ ॥
पोक्ते वेगे पंचमे वापि षष्टे शीतैस्तोयैर्ध्वस्तगात्रं विषार्तम् ।
शीतद्रव्यालेपनैः संविलिप्तम् तीक्ष्णैरूर्ध्वं शोधयेत्तं च धीमान् ॥ १०७ ॥
वेगेप्यस्मिन्सप्तमे चापि धीमान् तीक्ष्णं नस्यं चांजनं चोपयुज्य ।
कुर्यान्मूर्ध्नाशुक्षतं काकपादाकारं सांद्रं चर्म तत्र प्रदध्यात् ॥ १०८ ॥

भावार्थः--The Hindi commentary was not digitized.

मंडली व राजीमंतसर्पों के सप्तवेगोंकी पृथक् २ चिकित्सा.

प्राग्वेगेऽस्मिन् मण्डलैर्मण्डितानां अस्त्राण्येवं नातिगाढं विदध्यात् ।
सर्पिर्मिश्रं पाययित्वागदं तं शीघ्रं सम्यग्वामयेत्तद्वितीये ॥ १०९ ॥
तद्वद्वाव्यस्तत्तृतीये तु वेगे शेषेष्वन्यत्पूर्ववत्सर्वमेव ।
राजीमद्भिर्दष्टवेगेऽपि पूर्वे सम्यक्शस्त्रेणातिगाढं विदार्य ॥ ११० ॥